ganesh vandana

Shri Ganesh Vandana

Stotras

गजाननं भूतगणाधिसेवितं । कपित्थजम्बूफलचारुभक्षणम् ॥
उमासुतं शोकविनाशकारकम् । नमामि विघ्नेश्वरपादपङ्कजम् ॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोः । यतः सम्पदो भक्तसन्तोषिकाः स्युः ॥
यतो विघ्ननाशो यतः कार्यसिद्धिः । सदा तं गणेशं नमामो भजामः ॥
वक्रतुण्ड महाकाय सूर्य कोटी समप्रभ । निर्विघ्नं कुरुमेदेव सर्व कार्येषु सर्वदा ॥
रक्ष रक्ष गणाध्यक्ष, रक्ष त्रैलोक्य रक्षक। भक्तानामभयं कर्ता त्राता भव भवर्णावत् ॥
विनायक नमस्तुभ्यं सततं मोदकप्रिय । अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
एकदन्तं महाकायं लम्बोदरगजाननम् । विघ्ननाशकरं देवं हेरम्बं प्रणाम्यहम् ॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत सर्वविघ्नोपशान्तये ॥
द्वैतातुर कृपासिन्धो, षण्मातुराग्रज प्रभो। वरदस्त्वं वरन्देहि वांछितं वाञिछतार्थद ॥
विघ्नेश्वराय वरदाय सुरप्रियाय । लम्बोदराय सकलाय जगद्धिताय॥
अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः । सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥
स जयति सिन्धुरवदनो देवो यत्पादपङ्कजस्मरणम् । वासरमणिरिव तमसां राशीन्नाशयति विघ्नानाम् ॥
नागाननाय श्रुति यज्ञ विभूषिताय । गौरीसुताय गणनाथ नमो नमस्ते॥
लम्बोदरं नमस्तुभ्यं सततं मोदक प्रिय। निर्विघ्नं कुरु मे देव, सर्व कार्येषु सर्वदा॥

Leave a Reply

Your email address will not be published. Required fields are marked *