ganesh atharvasheersha

Shri Ganesh Atharvasheersha

Stotras

श्री गणेश अथर्वशीर्ष

ॐ नमस्ते गणपतये, त्वमेव प्रत्यक्षं तत्वमसि, त्वमेव केवलं कर्ताऽसि, त्वमेव केवलं धर्ताऽसि, त्वमेव केवलं हर्ताऽसि, त्वमेव सर्व खल्विदं ब्रह्मासि, त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥
ऋतं वच्मि, सत्यं वच्मि ॥ २ ॥
अव त्वं माम्, अव वक्तारम्, अव श्रोतारम्, अव दातारम्, अव धातारम्, अवानूचानमव शिष्यं, अव पश्चातात्, अव पुरस्तात्, अवोत्तरात्तात्, अव दक्षिणात्तात, अव चोर्ध्वात्तात, अवाधरात्तात, सर्वतो मां पाहि पाहि समन्तात् ॥ ३ ॥
त्वं वाङ्मयस्त्वं चिन्मय:, त्वं आनन्दमयस्त्वं ब्रह्ममय:, त्वं सच्चिदानन्दाद्वितीयोऽसि, त्वं प्रत्यक्षं ब्रह्मासि, त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४ ॥
सर्वं जगदिदं त्वत्तो जायते, सर्वं जगदिदं त्वत्तस्तिष्ठति, सर्वं जगदिदं त्वयि लयमेष्यति, सर्वं जगदिदं त्वयि प्रत्येति, त्वं भूमिरापोऽनलोऽनिलोनभ:, त्वं चत्वारि वाक् पदानि ॥ ५ ॥
त्वं गुणत्रयातीत:, त्वं देहत्रयातीत:, त्वं कालत्रयातीत:, त्वं मूलाधारस्थितोऽसि नित्यम्, त्वं शक्तित्रयात्मक:, त्वां योगिनो ध्यायन्ति नित्यम्, त्वं ब्रह्मा, त्वं विष्णुस्त्वं रुद्रस्त्वं इंद्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुव: स्वरोम् ॥ ६ ॥
गणादिं पूर्वमुच्चार्य वर्णादि तदनंतरं, अनुस्वार: परतर:, अर्धेन्दुलसितं, तारेण ऋद्धं, एतत्तव मनुस्वरुपम् । गकार: पूर्वरुपम्, अकारो मध्यमरुपम, अनुस्वारश्चान्तरुपम्, बिन्दुरुत्तररुपम्, नाद: संधानं, संहिता संधि:, सैषा गणेशविद्या, गणकऋषि:, निच्चृद गायत्रीच्छंद:, गणपतिर्देवता, ॐ गँ गणपतये नम: ॥ ७ ॥
एकदंताय विद्महे, वक्रतुण्डाय धीमहि, तन्नो दंति प्रचोदयात् ॥ ८ ॥
एकदन्तं चतुर्हस्तं पाशं अंकुशधारिणम्, रदं च वरदं हस्तैबिभ्राण मूषकध्वजम् । रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम्, रक्त गंधानुलिप्तांगं रक्तपुष्पै: सुपूजितम् । भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्, आविर्भूतं च सृष्ट्यादौ प्रकृते: पुरुषात्परम् । एवं ध्यायति यो नित्यं, स योगी योगिनां वर: ॥ ९ ॥
नमो व्रातपतये, नमो गणपतये, नम: प्रमथपतये, नमस्तेऽस्तु लम्बोदरायैकदन्ताय, विघ्ननाशिने, शिवसुताय, श्रीवरदमूर्तये नमो नम: ॥ १० ॥

Leave a Reply

Your email address will not be published. Required fields are marked *