ganesh vandana

Shri Ganesh Vandana

गजाननं भूतगणाधिसेवितं । कपित्थजम्बूफलचारुभक्षणम् ॥उमासुतं शोकविनाशकारकम् । नमामि विघ्नेश्वरपादपङ्कजम् ॥यतो बुद्धिरज्ञाननाशो मुमुक्षोः । यतः सम्पदो भक्तसन्तोषिकाः स्युः ॥यतो विघ्ननाशो यतः कार्यसिद्धिः । सदा तं गणेशं नमामो भजामः ॥वक्रतुण्ड महाकाय सूर्य कोटी समप्रभ । निर्विघ्नं कुरुमेदेव सर्व कार्येषु सर्वदा ॥रक्ष रक्ष गणाध्यक्ष, रक्ष त्रैलोक्य रक्षक। भक्तानामभयं कर्ता त्राता भव भवर्णावत् ॥विनायक नमस्तुभ्यं सततं मोदकप्रिय । अविघ्नं […]

Continue Reading
ganesh kavach

Shri Ganesh Kavacha Stotra

॥ श्री गणेशकवचम् ॥ एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो ।अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १ ॥दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः ।अतोस्य कण्ठे किञ्चित्त्यं रक्षां सम्बद्धुमर्हसि ॥ २ ॥ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगेत्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् । ईद्वापरेतु गजाननं युगभुजं रक्ताङ्गरागं विभुम् तुर्येतु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ ३ ॥विनायक […]

Continue Reading
ganesh sankatnashan

Shri Sankatnashan Ganesh Stotra

संकटनाशन गणेश स्तोत्रम् श्री गणेशाय नम: नारद उवाच प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।भक्तावासं स्मरेन्नित्यमायु: कामार्थसिद्धये ॥ १ ॥प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २ ॥लम्बोदरं पंचमं च षष्ठं विकटमेव च ।सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाऽष्टमम् ॥ ३ ॥नवमं भालचन्द्रं च दशमं तु विनायकम् ।एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥द्वादशैतानि […]

Continue Reading
ganesh bhujanga

Shri Ganesh Bhujangaprayat Stotra

श्री गणेशभुजंगप्रयात स्तोत्रम् ॥ श्री गणेशाय नम: ॥रणत्क्षुद्रघण्टानिनादाभिरामं चलत्ताण्डवोद्दण्डवत्पद्मतालम्।लसत्तुंदिलाङ्गोपरिव्यालहारं गणाधीशमीशानसूनुंतमीडे ॥ १ ॥ ध्वनिध्वंसवीणालयोल्लासिवक्त्रं स्फुरच्छुण्डदण्डोल्लसद्वीजपूरम्।गलद्दर्पसौगन्ध्यलोलालिमालं गणाधीशमीशानसुनुंतमीडे ॥ २ ॥ प्रकाशज्जपारक्तरत्न प्रसूनप्रवालप्रभातारुणज्योतिरेकम्।प्रलम्बोदरं वक्रतुण्डैकदन्तं गणाधीशमीशानसुनुंतमीडे ॥ ३ ॥ विचित्रस्फुरद्रत्न मालाकिरीटं किरीटोल्लसच्चन्द्ररेखाविभूषम्।विभूषैकभूषं भवध्वंसहेतुं गणाधीशमीशानसुनुंतमीडे ॥ ४ ॥ उदञ्चद्भुजावल्लरीदृश्यमूलोच्चलद्भ्रूलताविभ्रमभ्राजदक्षम्।मरुत्सुन्दरीचामरै: सेव्यमानं गणाधीशमीशानसुनुंतमीडे ॥ ५ ॥ स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं कृपाकोमलोदारलीलावतारम्।कलाबिन्दुगं गीयते योगिवर्येर्गणाधीशमीशानसुनुंतमीडे ॥ ६ ॥ यमेकाक्षरं निर्मलं निर्विकल्पं गुणातीतमानन्दमाकारशून्यम्।परं पारमोंकारमाम्नायगर्भं वदन्ति प्रगल्भं पुराणं […]

Continue Reading
ganesh atharvasheersha

Shri Ganesh Atharvasheersha

श्री गणेश अथर्वशीर्ष ॐ नमस्ते गणपतये, त्वमेव प्रत्यक्षं तत्वमसि, त्वमेव केवलं कर्ताऽसि, त्वमेव केवलं धर्ताऽसि, त्वमेव केवलं हर्ताऽसि, त्वमेव सर्व खल्विदं ब्रह्मासि, त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥ऋतं वच्मि, सत्यं वच्मि ॥ २ ॥अव त्वं माम्, अव वक्तारम्, अव श्रोतारम्, अव दातारम्, अव धातारम्, अवानूचानमव शिष्यं, अव पश्चातात्, अव पुरस्तात्, अवोत्तरात्तात्, अव दक्षिणात्तात, अव चोर्ध्वात्तात, […]

Continue Reading